भारतीयसंस्कृतेः परिवर्तितं स्वरूपम्

  • कृश्णमोहन पाण्डेय

Abstract

संस्कृतेर्दृष्ट्या वैदिकी संस्कृतिः सर्वप्राचीना सर्वोत्कृष्टा च नास्त्यत्र काचिदपि विचिकित्सा। चिन्तनीयमिदमस्माक- मादिकालिकसंस्कृतेः स्वरूपम्। ऋषयः जडचेतनब्रह्मरहस्यज्ञाः साक्षात्कृतधर्माणः सर्वत्रात्मानमेवानुभवन्ति। यत्र विश्वं भवत्येकनीडम्। परैः सार्द्धं वृत्तिः स्वसदृशी। एतादृशी जीवनशैली जीवनस्याधारभूता अस्माकं भारतीयासंस्कृतिः। सर्वत्र मधुमयं वातावरणं तेषां पूर्वजानां चिन्तनम्। मन्त्रयति मन्त्रद्रष्टा ऋषिः-
Published
2017-08-11